मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
छान्दोग्योपनिषत् दशसु प्रमुखोपनिषत्सु अन्यतमा अस्ति छान्दोग्योपनिषत्। इयं हयग्रीवरूपिणः भगवतः मुखात् आविर्भूता पवित्रवाक्यरूपा। सर्वासाम् उपनिषदां मुख्याभिमानिनी लक्ष्मीदेवी स्वस्य पतिं श्रीहरिम् अत्र ओमित्यक्षरमुद्गीथमुपासीत इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति।
हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम्।
ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम्। (छा उ भाष्यम् १-१-१) (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
रामायणे कति काण्डानि सन्ति ? तानि कानि ?
रामायणे सप्त काण्डानि सन्ति । तानि -
  1. बालकाण्डम्
  2. अयोध्याकाण्डम्
  3. अरण्यकाण्डम्
  4. किष्किन्धाकाण्डम्
  5. सुन्दरकाण्डम्
  6. युद्धकाण्डम्
  7. उत्तरकाण्डम्



आधुनिकलेखः
आधुनिकाः लेखाः
विषरहितान्नोत्पदानार्थं साम्प्रदायिककर्षणम्

कृषिः शब्द आङ्ग्लभाषायां ‘एग्रीकल्चर्’ इति उच्यते। एग्रीकल्चर् इत्यस्य शब्दस्य उत्पत्तिः लैटिन-भाषायाः जाता। लैटिन-भाषायाम् एगर् वा एग्री शब्दः अस्ति, यस्य अर्थःमृत्तिका इति भवति। अनन्तरं कल्चर् इत्यस्य शब्दस्य अर्थः कृषिः इति। कृषिः एका प्राथमिकी क्रिया अस्ति। सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति। विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्
सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि।

छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥

सु.भा. - सज्जनप्रशंसा (४९/११०)

लोके तावत् मनुष्यस्य एषः स्वभावः यत् यदा सः स्वयं कष्टम् अनुभवति, आपद्ग्रस्तो वा भवति, तदा सः कुपितः भवेत्, दु:खितो वा भवेत्। किन्तु सत्पुरुषाणां स्वभावः न तादृशः। ते सर्वदा परोपकारे एव निरताः सन्तः स्वस्य नाशसमये अपि कमपि विकारं न प्राप्नुवन्ति। तत्कथमिति कविः एकेन उदाहरणेन दर्शयति।

यथा चन्दनवृक्षः छेदनसमये अपि सहजगुणं सुगन्धं न जहाति, अपि च छेदनार्थम् उपयुक्तं कुठारमपि सुगन्धयुक्तं करोति, तथैव सज्जनाः नाशसमये अपि परोपकारबुद्धिं न परित्यजन्ति।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=453806" इत्यस्माद् प्रतिप्राप्तम्