मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
वैशेषिकदर्शनं भारतीयदर्शनेषु अन्यतमम्। सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम्। दर्शनम् एतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः 'काश्यपः' इत्यपि ख्यातः। अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकमेतच्छास्त्रं रचितवान्। एतच्छास्त्रं न केवलं भारतदेशे, अपि तु सर्वत्र प्रपञ्चे विराजते। महात्मा कणादः प्रकृत्या स्वयं दरिद्रः सन् क्षेत्रे पतितान्नकणान् लक्षीकृत्य स्वजीवननिर्वाहं कृतवान् इत्यतः अस्य शास्त्रस्य ’कणादशास्त्रम्’ इति व्यवहारः। अन्यदपि नाम शास्त्रस्यास्य भवति वैशेषिकदर्श्नमिति। यतः अस्मिन् दर्शने विशेषः पदार्थत्वेन स्वीक्रियते। (अधिकवाचनाय »)



অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्

अवलेहः

Tursucu Sahne sokak beyoglu Istanbul 0644.jpg



आधुनिकलेखः
आधुनिकाः लेखाः
भगिनी निवेदिता

भगिनी निवेदिता इति स्वामिविवेकानन्देन प्रदत्तं नाम। तस्याः वास्तविकं नाम तु मार्गरेट् एलिजबेथ् नोबल् आसीत्। भारतस्य स्वतन्त्रतासङ्ग्रामे तस्याः अपि अविस्मरणीयं योगदानं वर्तते। मेडलीन् स्लेड्, एनी बेसन्ट् सदृशम् एषा अपि भारतमातुः विदेशिपुत्री। एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्छत्। मेडम कामा-द्वारा निर्मितस्य "वन्दे मातरम्"-ध्वजस्य अनुसरणं कृत्वा अनया अपि भारतीयराष्ट्रध्वजस्य निर्माणे स्वयोगदानं कृतम्। स्वामिविवेकानन्दस्य जीवनीलेखने अपि एतस्याः महत्योगदानं वर्तते। (अधिकवाचनाय »)




प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
केचन कथाग्रन्था:, तेषां कर्तार: च -
पञ्चतन्त्रम् - विष्णुशर्मा
हितोपदेशः - नारायणभट्टः
कथासरित्सागरः - सोमदेवः
बृहत्कथा - गुणाढ्यः



वर्तमानघटनाः
अद्यतनं सुभाषितम्

मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥

कालिदासस्य रघुवंशम् (८/८७)

सर्वेषां प्राणिनां मरणं स्वभावसिद्धम्। तत् परिहर्तुं केनापि न शक्यते। जातस्य मरणं निश्चितम् एव। किन्तु जीवनं न निश्चितम्। तत् आकस्मिकं, न तु स्वभावसिद्धम्। अद्यैव जीवनं समाप्तं स्यात्, अथवा श्वः। जीवितस्य पुरुषस्य मरणं भवत्येव। किन्तु मृतस्य पुनः जीवितं भविष्यति इत्यत्र न निश्चयः। अतः क्षणकालमपि जीवः यदि देहे तिष्ठति तर्हि तदेव प्राणिनां महालाभः। किञ्च, मरणेऽपि शोकः न कार्यः। यतः मरणं प्राणिनां स्वाभाविकम्। यावज्जीवं सन्तोषेण जीवेत्। यतः दुर्लभं जीवनम् अस्माभिः प्राप्तम् अस्ति।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=425470" इत्यस्माद् पुनः प्राप्तिः