मुख्यपृष्ठम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः

२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,०५६ लेखाः सन्ति ।

शुक्रवासरः, मार्च ११, २०१६; समयः- ११:५१ UTC


विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्


वसुधा

श्रद्धया विन्दते वसु ॥
श्रद्धया सम्पत्तिः प्राप्यते । -ऋग्वेदः १०-१५१-४



शास्त्रीयलेखः

Om symbol.png

कठोपनिषदः

काठकोपनिषदित्यपि नाम वर्तते । कृष्णयजुर्वेदीया इयम् उपनिषत् । अस्याम् उपनिषदि अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । यम-नचिकेतसोः संवादरूपेण इयम् उपनिषद् वर्तते । इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति । प्रत्येकस्मिन् उपनिषदि अपि ब्रह्मज्ञानविषयः एव विवृतः अस्ति चेदपि सर्वस्मिन् अपि नावीन्यं सौन्दर्यञ्च परिदृश्यते । कठोपनिषदः वैशिष्ट्यं नाम अत्र विद्यमाना लघुकथा ।

(अधिकवाचनाय »)



वार्ताः

प्यारिस्-नगरे आक्रमितानि षट्स्थलानि
  • उग्रस्थानानामुपरि फ्रान्स्-अमेरिकादेशाभ्यां वायुदलाक्रमाणि कृतानि । सिरियादेशस्य रक्कप्रदेशोपरि फ्रान्स्-देशस्य विमानानि २० स्फोटकास्त्राणि प्रक्षिप्य दशाधिकानि उग्रस्थानानि नाशयामासुः ।
  • जी-२० शृङ्गसभायाः विश्वनेतारः ऐसिस्-उग्रान् दमयितुं शपथं कृतवन्तः ।
  • फ्रान्स्-देशस्य राजधानीं प्यारिस्-नगरोपरि ऐसिस्-उग्रवादिनः षट्सु स्थलेषु(चित्रे) सारणिरूपेण स्फोटकास्त्राणि गुलिकास्त्राणि च प्रक्षिप्य अनेकान् जनान्(प्रायः १३०) मारितवन्तः ।
  • लण्डन्-नगरे बसवेश्वरस्मारकमूर्तेः अनावरणं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम् ।
  • तमिळनाडुराज्ये भीकरवर्षया अनेके प्रदेशाः जलेनावृत्ताः । भवनानि गृहानि च प्रभग्नानि । ३९ जना मृताः ।

अद्यतनं चित्रम्

लक्ष्मीविलासप्रासादः वडोदरा

Lakshmi Vilas Palace, Vadodara.jpg

आधुनिकलेखः

जलबिन्दुः

जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः (Blue Planet ) इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।

(अधिकवाचनाय »)




ज्ञायते किं भवता...

सप्तचिरञ्जीविनां नामानि -

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥




सुभाषितम्

भीमं वनं भवति तस्य पुरं प्रधानं

सर्वो जनः सुजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥

सु.भा. - दैवाख्यानम् (९६/७४)

यः मनुष्यः पूर्वस्मिन् जन्मनि अनेकानि सुकृतानि (पुण्यकर्माणि) कृतवान् सः अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति । नास्ति अत्र संशयः । तादृशः पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति । अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति । किं बहुना, समग्रा भूमिः एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति ।




भारतविषये विशेषपरियोजना



अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=364544" इत्यस्माद् पुनः प्राप्तिः