विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शास्त्रीयलेखाः
|
विशिष्टाद्वैतवेदान्तः
त्रिषु वेदान्तेषु अन्यतमः । रामानुजाचार्यः अस्य प्रवर्तकः विद्यते । अस्य सिद्धान्तस्य आधाराभूतानि प्रस्थानत्रयाणि । अतीवप्राचीनानाम् उपनिषद्विचारधाराणाम् अनुगुण्येन अयं सिद्धान्तः ’चिदचिद्विशिष्टम् एकं ब्रह्मतत्वम्’ अस्ति इति प्रतिपादितः । अस्मिन् सिद्धान्ते जीवात्मानां प्रकृतेः च सतत्वं स्वीकृतम् अस्ति । तथापि, ब्रह्मादीनमेव ब्रह्मतत्वं विना नभवन्ति । ब्रह्मवस्तूनः अपृथक्सिद्धानि विशेषणानि भवन्ति इति प्रतिपादितम् अस्मिन् । चेतनाचेतनविशिष्टः ब्रह्मा एकः एव इति स्फुटसिद्धान्तः । उपनिषद्प्रतिपाद्यः ब्रह्मवस्तु श्रीमन्नारायणः एव इति अस्य सिद्धान्तस्य अर्थः । अस्मिन् सिद्धान्ते प्रतिपादिता या ईश्वरभावना सा पाञ्चरात्रागमेषु प्रतिपादितस्य भागवतसम्प्रदायस्य अनुगुणम् अस्ति ।
(अधिकवाचनाय »)
|
वार्ताः
|
|
सुभाषितानि
|
अकाले कृत्यमारब्धं कर्तुरनर्थाय कल्पते ।
तदेव काले आरब्धं महतेऽर्थाय कल्पते ॥
-
-
-
-
-
-
- शान्तिपर्व १३८/९५
कार्यकरणात् पूर्वं विवेकी मनुष्यः परिस्थितिम् अवलोकयेत् । असमये आरब्धं कार्यं कर्तुः लाभदायकं न भवेत् । किन्तु तदेव कार्यं यदि समीचीने समये क्रियेत तर्हि तत् नितराम् उपयुक्तकरं स्यात् ।
|
|
|
|
आधुनिकाः लेखाः
|
मदनमोहनमालवीयः इत्याख्यः महापुरुषः अस्मिन् देशे जातः । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः, अपि तु देशोऽपि भाग्यशाली अभवत् । उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् अर्जितवान् आसीत् । १८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई,नानासाहेबः, तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । भारतदेशः आङ्ग्लसाम्राज्यस्य कश्चन भागः अभवत् । तेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः ।
(अधिकवाचनाय »)
|
ज्ञायते किं भवता?
|
आस्तिकदर्शनानि दर्शनकाराः च -
(यानि वेदप्रामाण्यम् अङ्गीकुर्वन्ति तानि आस्तिकानि)
-
- साङ्ख्यदर्शनम् - कपिलः
- योगदर्शनम् - पतञ्जलिः
- न्यायदर्शनम् - गौतमः
- वैशेषिकदर्शनम् - कणादः
- पूर्वमीमांसा - जैमिनिः
- उत्तरमीमांसा - व्यासः
|
अद्यतनं चित्रम्
|
गायन् अश्वः
|
|
|