विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः
२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,२०१ लेखाः सन्ति ।
शनिवासरः, दिसम्बर ३१, २०१६; समयः- ०९:०८ UTC
विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्
|
जहि रक्षांसि सुक्रतो ॥
हे सत्कर्मशील ! राक्षसीयगुणान् विनाशय । -ऋग्वेदः ६-१६-२९
|
|
अग्निपुराणम्
अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्निवसिष्ठयोः । पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् ।
(अधिकवाचनाय »)
|
|
|
|
बेङ्कोक-देशस्य सन्ध्याकालः
|
|
|
|
|
|
|
|
|
|
आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति स जीवति ॥
-
-
-
-
-
- सु.भा. परोपकारप्रशंसा (७८/६)
प्रपञ्चे विद्यमानाः सर्वे अपि मनुष्याः स्वहितं, स्वसुखं च सम्पादयन्ति । अतः आत्मनः निमित्तं सर्वः अपि जनः जीवति एव । परन्तु ये जनाः अन्येषां हितम्, अन्येषां सुखं च कामयमानाः तदर्थं जीवन्ति, तेषां जीवनमेव सार्थकं जीवनम् ! धन्यं जीवनम् ! परोपकाररहितं जीवनं तु निरर्थकमेव ।
|
|
|
|
|
|