मुख्यपृष्ठम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः

२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,१९० लेखाः सन्ति ।

मङ्गलवासरः, नवम्बर ८, २०१६; समयः- २३:३० UTC


विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्


वसुधा

विश्वायुर्धेह्यक्षितम् ॥
न्यूनतारहितस्य पूर्णायुषः धारणं क्रियताम् । -ऋग्वेदः १-९-७



शास्त्रीयलेखः

रामायणम्

रामायणम्
रामस्य अयनं (चरितं) रामायणम् । आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । रामायणे न केवलं युद्धमात्रं वर्णितम् अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च धर्मस्य च वर्णनं दृश्यते । सरलसंस्कृतभाषापठनार्थम् अत्यन्तोपयोगि साधनं च भवत्येतत् । महाभारते रामायणस्य कथा वर्णिता दृश्यते। पाणिनेः अष्टाध्याय्याम् अपि कैकेयीकौसल्यादयः शब्दाः दृश्यन्ते। अतः रामायणं महाभारतात् पाणिनेः च पूर्वम् आसीत् इति स्पष्टम्। रामायणं कदा आसीत् इति विषये मतभेदाः बहवः सन्ति। तथापि एतावत्तु वक्तुं शक्यते यत् वाल्मीकिः रामायणं क्रि•पू•पञ्चसहस्रवर्षेभ्यः पूर्वं रचितवान् स्यात् इति।

(अधिकवाचनाय »)



वार्ताः

अद्यतनं चित्रम्

जलप्रपातः

അതിരപ്പിള്ളി വെള്ളച്ചാട്ടത്തിന്റെ താഴെ നിന്നുള്ള ദൃശ്യം.jpg

आधुनिकलेखः

विजयनगरसाम्राज्यम्

विजयनगरसाम्राज्यस्य स्थापना कर्णाटकराज्ये चतुर्दशशतकस्योत्तरार्धे अभवत्। कर्णाटकस्य इतिहासे अत्यन्तं प्रमुखघटना एषा इति इतिहासकाराः वदन्ति । विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्करायः इति सहोदराभ्यां संस्थापितम् । अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम् । विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पी"प्रदेशः । कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत् । यद्यपि १५६५ तमे वर्षे ताळीकोटेयुद्धे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत् । तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेशियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन् । विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन् । कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः । तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः । कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति । कन्नडं,तेलुगुभाषा, संस्कृतभाषायाःइत्यादिभाषासाहित्ये अपि तेषां योगदानम् अविस्मरणीयम् । अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः । एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन् । विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः ह्रासमार्गम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः ।

(अधिकवाचनाय »)




ज्ञायते किं भवता...

प्रस्थानत्रयं नाम किम् ?

  1. उपनिषदः
  2. भगवद्गीता
  3. ब्रह्मसूत्राणि




सुभाषितम्

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥

नीतिशतकम् – ३५

लोके सामान्यः पुरुषः अपि अन्यैः कृतं स्वस्य अपमानं न सहते । स्वाभिमानी पुरुषः अन्यैः कृतम् अपमानं न सहते इति तु न वक्तव्यम् । तस्य उदाहरणम् अपि कविना दत्तं यत् सूर्यकान्तमणिः यदा सूर्यकिरणैः स्पर्शं प्राप्नोति तदा झटिति प्रज्वलति । अचेतने मणौ एव एतादृशः स्वभावः दृश्यते । सचेतनानां विषये तु वक्तव्यमेव नास्ति ।




भारतविषये विशेषपरियोजना



अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=394449" इत्यस्माद् पुनः प्राप्तिः