मुख्यपृष्ठम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्


५६६३२.tif संस्कृतविकिपीडियायाः दशमोत्सवः ५६६३२.tif


विश्वकोशः
स्वतन्त्रविश्वकोशः

२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,१५७ लेखाः सन्ति ।

२०१४ मार्च २६


विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्


वसुधा

धेहि तनूषु नः ॥
अस्माकं शरीरेषु बलं धारयतु । -ऋग्वेदः ३-५३-१८




शास्त्रीयलेखः

साहित्यदर्पणम् विश्वनाथेन रचितः ग्रन्थः । पाण्डित्यपूर्णग्रन्थोऽयम् अलङ्कारस्य विषये वर्तते । सूत्रवृत्त्युदाहरणारुपेणा त्रिधा विभक्तः । अत्र च विद्यमानाः कारिकाः , वृत्तयः एतेनैव रचिताः । साहित्यदर्पणकारः कविराजो विश्वनाथः उत्कलप्रदेशे ब्राह्मणकुले जन्म लेभे । तस्य प्रपितामहो नारायणः, चण्डीदासः पितामहानुजः, चन्द्रशेखरश्च पिताऽऽसीत् ।

          श्री चन्द्रशेखरमहाकविचन्द्रसूनु
                       श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।
        साहित्यदर्पणममुं सुधियो विलोक्य
                        साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ (सा. दर्पण- १०-१००)

अलंकारसाहित्येतिहासेन्यतमो ग्रन्थः तावत् साहित्यदर्पणम् एकः एवास्ति । दशपरिच्छेदात्मकोऽयं ग्रन्थः ।

(अधिकवाचनाय »)




वार्ताः

Boeing 777-200ER Malaysia AL (MAS) 9M-MRO - MSN 28420 404 (9272090094).jpg
  • कौलालम्पुरतः बीजीङ्गप्रति प्रस्थितः मलयेशियाविमानं गल्फ् आफ् थैलाण्ड्प्रदेशतः अदृश्यतां गतः यस्मिन् २३९ यात्रिणः आसन् ।
  • स्वास्थ्यम्, सहनिर्माणम्, कौशलविकासः इत्येतत्क्षेत्रम्बद्धेषु सहमतिपत्रेषु भारतकेनडादेशयोः अङ्गीकारः जातः, येषु प्रधानमन्त्री मनमोहनसिंहः केनडादेशस्य गवर्नर् जनरल् डेविड् जान्स्टन् च हस्ताक्षरं कृतवन्तौ ।

अद्यतनं चित्रम्

भेकः

Wasserfrosch.jpg

आधुनिकलेखः

CM Narendra Damodardas Modi.jpg

नरेन्द्र मोदी (गुजराती: નરેન્દ્ર મોદી) भारतदेशे सततं तृतीयवारं गुजरातराज्यस्य मुख्यमन्त्री अस्ति । नरेन्द्र मोदिनः जन्म १७ 'सेप्टेम्बर्', १९५० तमे वर्षे मेहसाणामण्डलस्य वडनगरनामके ग्रामे अभवत् । विज्ञानतन्त्रज्ञानयोः रसज्ञः नरेन्द्र मोदी नानायन्त्राणाम् उपयोगेन राजतन्त्रे ‘ई-गवर्नेन्स्’ इति कांश्चन नूतनां पद्धतिं प्रक्षिप्तवान् ।

(अधिकवाचनाय »)




ज्ञायते किं भवता...

सुभाषितम्

व्याधितस्यार्थहीनस्य देशान्तरगतस्य च ।

नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥

सुभाषितरत्नभाण्डागारम् - सुमित्रप्रशंसा (९२/१०)

प्राय: लोके सर्वेषाम् अपि स्नेहिता: भवन्ति एव । बान्धवा: बहव: स्यु: नाम, तथापि मित्राणि सन्ति चेत् एव तस्य नरस्य जीवनं सुखि जीवनम् । यत: यस्य मित्राणि भवन्ति तस्य जीवने सर्वविधसौख्यम् अपि भवति । मनुष्यस्य कष्टसमये मित्रं सान्त्वनवचनै:, अन्येन प्रकारेण वा साहाय्यम् आचरति । तत्रापि रुग्णावस्थायां, दारिद्र्यदशायां, देशान्तरनिवासप्रसङ्गे, दु:खावस्थायां च यदि मित्राणां दर्शनं भवति तर्हि तत् औषधमिव सर्वमपि कष्टं दु:खं च परिहरति ।





अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9


सहपरियोजनाः

"http://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=263454" इत्यस्माद् पुनः प्राप्तिः