मुख्यपृष्ठम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
संस्कृतविकिपीडियायां सम्प्रति ९,३६२ लेखाः सन्ति।
|
|
२०१३ अष्टोबर् ११
|
|
|
प्रमुखो लेखः
|
प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । शिवगणानाम् अधिपतिः, विघ्ननिवारकः, आदिपूज्यः च । आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम् इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । पञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः ।
पुराणेइतिहासागमादिषु तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । कलौ दुर्गाविनायकौ इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु बर्मा, मलेश्या, इण्डोनेशिया, चीना, सुमात्रा, जावा, जपान् इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।
( अधिकवाचनाय »)
|
|
|
|
- केन्यादेशस्य राजधान्यां नैरोब्यां स्थितं विक्रयणमहापणं ('माल्'नामकम्) अक्रान्तवद्भिः भयोत्पादकैः ६७ जनाः मारिताः।
- सिरियादेशे रासायनिकास्त्रप्रयोगात् सहस्राधिकाः जनाः गतासवः जाताः ।
|
|
ज्ञायते किं भवता ?
|
सप्तचिरञ्जीविनां नामानि -
-
- अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: ।
- कृपः परशुरामश्च सप्तैते चिरजीविनः ॥
|
|
|
सुभाषितम्
|
भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जन: सुजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥
-
-
-
-
-
- सु.भा. - दैवाख्यानम् (९६/७४)
य: मनुष्य: पूर्वस्मिन् जन्मनि अनेकानि सुकृतानि (पुण्यकर्माणि) कृतवान् स: अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति । नास्ति अत्र संशय: । तादृश: पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति । अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति । किं बहुना, समग्रा भूमि: एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति ।
|
|
|
प्रमुखं चित्रम्
|
इगुवास्सु जलपातः ( पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।
|
|
विश्वविज्ञानकोशः
|
|
|
विकि समाजः
|
|
|
|
संस्कृतभाषासहायी
|
|
|
भ्रातृपरियोजनाः
|
विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा-परियोजनाः
आंगलेयभाषा परियोजनाः
|
|
विकिपीडिया भाषाः
|
|
|