मुख्यपृष्ठम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
प्रमुखः लेखः
|
भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । श्रीकृष्ण: अत्र उपदेशकः, श्रोता अर्जुनः । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।
श्रीमदभगवद्गीताख्यं शास्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम् । वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च । प्रसिद्धिश्चैतादृश्येव –
- गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
- या स्वयं पद्मनाभस्य मुखपदमाद्विनिः सृता ॥
( अधिकवाचनाय »)
|
|
|
|
- भारतपाकिस्तानयोः सीमाभागे उद्विग्नवातावरणम् । पाकिस्तानसैनिकैः अनिरीक्षिततया गोलकास्त्रप्रयोगः कृतः। जनवरीमासस्य अष्टमदिनाङ्के पाकिस्तानस्य सैनिकैः द्वयोः भारतीयसैनिकयोः पाशवीयरीत्या मारणं कृतम्। किन्तु पाकिस्तानदेशः एतां घटनां नाङ्गीकरोति ।
- क्रिकेट् जगतः अनभिषिक्तः साम्राट् इति ख्यातः सचिनतेण्डुलकरः एकदिनक्रिकेटस्पर्धाभ्यः निवृत्तेः घोषणाम् अकरोत् ।
- ओडियाभाषायाः लेखिकायै प्रतिभा रे वर्यायै डिसेम्बरमासस्य २७ तमे दिनाङ्के ज्ञानपीठप्रशस्तिः घोषिता ।
|
|
ज्ञायते किं भवता ?
|
|
|
|
सुभाषितम्
|
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशया: ॥
-
-
-
-
-
- सु.भा. - सज्जनप्रशंसा (४७/६)
गङ्गानद्यां य: स्नानं करोति तस्य पापपरिहार: भवति । गङ्गा तस्य पापं नाशयति । तथैव चन्द्र: अस्माकं तापं परिहृत्य शैत्यम् उत्पादयति । एवमेव कल्पवृक्ष: अस्माभि: याचितान् सर्वान् अभिलाषान् पूरयति । एतत् जगति प्रसिद्धमेव । किन्तु गङ्गाया:, चन्द्रस्य, कल्पवृक्षस्य च एकस्मिन् एव विषये सामर्थ्यम् अस्ति । सज्जना: महापुरुषा: तु न तथा । तेषां सहवासेन अस्माकं पापं, ताप:, दैन्यं - सर्वमपि परिहृतं भवति । तादृशं सामर्थ्यं तेषु अस्ति ।
|
|
|
प्रमुखं चित्रम्
|
उत्कलराज्ये जगन्नाथपुर्यां विद्यमानम् कोणार्कमन्दिरं सप्तभिः अश्वैः चतुर्विंशत्या मनोहरचक्रैश्च युक्तमस्ति । अश्वानाम् इमाः मूर्तयः विश्वस्य उत्कृष्टतममूर्तिषु अन्यतमाः इति मूर्तिकलाविदाम् अभिमतम् । युगयुगान्तरेभ्यः इदं मन्दिरं सुविख्यातम् । अकबरस्य प्रसिद्धमन्त्री अबुलफजलः स्वीये आइनेकबरीति ग्रन्थे अलिखत्, "अस्ति जगन्नाथपुर्याः समीपे सूर्यमन्दिरम् । कलिङ्गराजस्य द्वादशवर्षाणां राजस्वं तस्य निर्माणे व्यतितम् । दुष्प्रसाद्याः कलाविशारदाः अधुनापि तद् दृष्ट्वा विस्मयविमूढा भवन्ति । तस्य प्राचीराणाम् उच्चता सार्धशतहस्तमिता स्थूलता च नवदशहस्तमिता । तस्य त्रीणि द्वाराणि सन्ति । पूर्वद्वारे कारुकलया सम्यक् उत्कीर्णे गजमूर्ती स्तः । ते शुण्डेन एकैकं मनुष्यं धरतः । पश्चिमद्वारे सकलशस्त्रास्त्रैः सुसज्जितयोः उपरि सविक्रमं स्थितयोः सिंहयोः मूर्ती स्तः, सम्मुखे कृष्णप्रस्तरनिर्मितः अष्टकोणः, पञ्चाशद्गजोच्चः स्तम्भः वर्तते । नव सोपानानि आरुह्य शिलामयं विशालायतनं द्रष्टुं शक्यते यत्र सूर्येण सह अन्ये ग्रहाः समुत्कीर्णाः । ...सप्तशतप्रायवर्षेभ्यः प्राक् नृपः नरसिंहदेवः अस्य भव्यभवनस्य निर्माणं समापयत् इति कथ्यते..."
|
|
विश्वविज्ञानकोशः
|
|
|
विकि समाजः
|
|
|
|
संस्कृतभाषासहायी
|
|
|
भ्रातृपरियोजनाः
|
विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा-परियोजनाः
आंगलेयभाषा परियोजनाः
|
|
विकिपीडिया भाषाः
|
|
|