मुख्यपृष्ठम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
135px-155px-Wikipedia-logo-v2-sa.svg
संस्कृतविकिपीडियायां सम्प्रति ७,९११ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता ७,९११ लेखाः लिखिताः सन्ति।

संस्कृतविकिपीडियादूतावासः
२०१२ अष्टोबर् १५
Gnome-help.svg सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।   Information icon.svg  
अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

Cscr-featured.png प्रमुखः लेखः

Melakarta.katapayadi.sankhya.72.devanagari.png

सङ्गीतम् इत्येषा कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं वेदाः एव । ऋग्वेदादिषु मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रूपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति ।


(अधिकवाचनाय »)

Nuvola apps knewsticker.png वार्ताः

borderबि.एस्.यडियूरप्पः

कावेरीविवादसन्दर्भे कर्णाटकसर्वकारेण न्यायाङ्गनिन्दनस्य आरोपः सम्मुखीकरणीयः स्यात् | अस्मिन् विषये तमिळ्नाडुसर्वकारस्य धारणा अचला अस्ति।

भारतीयजनतपक्षतः निर्गन्तुं कर्णाटकस्य भूतपूर्वमुख्यमन्त्रिणः बि.एस्.यडियूरप्पस्य निर्धारः । नूतनपक्षनिर्माणविषये शीघ्रमेव घोषणा क्रियते ।


संस्कृतवार्ताः

संस्कृतसंवर्धनप्रतिष्ठानेन “आगामिदशके संस्कृतविकासाय नवमार्गान्वेषणम्” इत्यस्मिन् विषये आगष्टमासस्य २०दिनाङ्के देहल्याम् काचित् गोष्ठी आयोजिता आसीत् । श्रीरामाजोयिस् वर्यः गोष्ठ्याः उद्घाटनम् अकरोत् । सप्त संस्कृतविश्वविद्यालयानां कुलपतयः,त्रयः अकाडेमीप्रमुखाः, अन्ये संस्कृतक्षेत्रप्रमुखाः च अत्र भागम् अवहन् । ’संस्कृतशिक्षकप्रशिक्षणार्थं शिक्षाक्षेत्रे नवीनाविष्कारं चिन्तयितुं काचित् संस्था भवेत्’ इत्यस्मिन् विषये विचारविनिमयः कृतः । भूतपूर्वः निर्वाचनायोगस्य अध्यक्षः एन्.गोपालस्वामी आध्यक्षं निरवहत् ।

अमेरिका देशे ऐदम्प्राथम्येन संस्कृतभारतीसंस्थया संस्कृताभियानम् आयोजितम् अस्ति । अभियानम् एतत् सप्टम्बर् १४ दिनाङ्कतः नवम्बर् २० दिनाङ्कपर्यन्तं प्रचलति ।

• रामानुजताताचार्यवर्याय शाब्दबोधमीमांसाग्रन्थस्य कृते फ्रेञ्चपुरस्कारः प्राप्त ।

Icona de la Barra de la Taverna de la Viquipèdia.png ज्ञायते किं भवता ?

नव रसाः - नवभावाः
शृङ्गारः - रतिः
वीरः - उत्साहः
करुणः - शोकः
अद्भुतः - विस्मयः
हास्यः - हासः
भयानकः - भयम्
बीभत्सः - जुगुप्सा
रौद्रः - क्रोधः
शान्तः - शमः

अयं च श्लोक: -

शृङ्गार-वीर-करुणाद्भुत-हास्य-भयानकाः ।
बीभत्सरौद्रौ शान्तश्च रसा: नव प्रकीर्तिताः ॥



Crystal Clear app gadu.png सुभाषितम्

मनसि वचसि काये पुण्यपीयूषपूर्णा:

त्रिभुवनमुपकारश्रेणिभि: प्रीणयन्त: ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्त: सन्ति सन्त: कियन्त:

नीतिशतकम् (५३/२२१)

सज्जनानां स्वभावं वर्णयति कविः । सत्पुरुषाणां वचांसि मनांसि शरीराणि च अमृतेन पूर्णानि भवन्ति । तादृशेन अमृतपूर्णेन वचनेन, चेतसा, शरीरेण च ते सज्जनाः उपकारसहस्रेण लोके स्थितानां सर्वेषां जीविनामपि हितम् आचरन्ति । अपि च अन्येषु स्थिताः गुणाः अल्पाः चेदपि तान् एव बहु मत्वा, मनसि सन्तोषम् अनुभवन्ति । किन्तु एतादृशाः जनाः जगति कियन्तः सन्ति ?



Nuvola apps package graphics.png प्रमुखं चित्रम्

गर्भगृहम्
उत्कलराज्ये जगन्नाथपुर्यां विद्यमानम् कोणार्कमन्दिरं सप्तभिः अश्वैः चतुर्विंशत्या मनोहरचक्रैश्च युक्तमस्ति । अश्वानाम् इमाः मूर्तयः विश्वस्य उत्कृष्टतममूर्तिषु अन्यतमाः इति मूर्तिकलाविदाम् अभिमतम् । युगयुगान्तरेभ्यः इदं मन्दिरं सुविख्यातम् । अकबरस्य प्रसिद्धमन्त्री अबुलफजलः स्वीये आइनेकबरीति ग्रन्थे अलिखत्, "अस्ति जगन्नाथपुर्याः समीपे सूर्यमन्दिरम् । कलिङ्गराजस्य द्वादशवर्षाणां राजस्वं तस्य निर्माणे व्यतितम् । दुष्प्रसाद्याः कलाविशारदाः अधुनापि तद् दृष्ट्वा विस्मयविमूढा भवन्ति । तस्य प्राचीराणाम् उच्चता सार्धशतहस्तमिता स्थूलता च नवदशहस्तमिता । तस्य त्रीणि द्वाराणि सन्ति । पूर्वद्वारे कारुकलया सम्यक् उत्कीर्णे गजमूर्ती स्तः । ते शुण्डेन एकैकं मनुष्यं धरतः । पश्चिमद्वारे सकलशस्त्रास्त्रैः सुसज्जितयोः उपरि सविक्रमं स्थितयोः सिंहयोः मूर्ती स्तः, सम्मुखे कृष्णप्रस्तरनिर्मितः अष्टकोणः, पञ्चाशद्गजोच्चः स्तम्भः वर्तते । नव सोपानानि आरुह्य शिलामयं विशालायतनं द्रष्टुं शक्यते यत्र सूर्येण सह अन्ये ग्रहाः समुत्कीर्णाः । ...सप्तशतप्रायवर्षेभ्यः प्राक् नृपः नरसिंहदेवः अस्य भव्यभवनस्य निर्माणं समापयत् इति कथ्यते..."

Nuvola apps bookcase.png विश्वविज्ञानकोशः

भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमि:महाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

Nuvola apps kdmconfig.pngविकि समाजः

Crystal Clear app khelpcenter.png संस्कृतभाषासहायी

Wikimedia-logo-35px.png भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

Wiki letter w.svg विकिपीडिया भाषाः

वैयक्तिकोपकरणानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु